भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.021

9.021.01

एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः ।
मत्सरासः स्वर्विदः ॥

9.021.02

प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः ।
स्वयं स्तोत्रे वयस्कृतः ॥

9.021.03

वृथा क्रीळन्त इन्दवः सधस्थम् अभ्य् एकम् इत् ।
सिन्धोर् ऊर्मा व्य् अक्षरन् ॥

9.021.04

एते विश्वानि वार्या पवमानास आशत ।
हिता न सप्तयो रथे ॥

9.021.05

आस्मिन् पिशङ्गम् इन्दवो दधाता वेनम् आदिशे ।
यो अस्मभ्यम् अरावा ॥

9.021.06

ऋभुर् न रथ्यं नवं दधाता केतम् आदिशे ।
शुक्राः पवध्वम् अर्णसा ॥

9.021.07

एत उ त्ये अवीवशन् काष्ठां वाजिनो अक्रत ।
सतः प्रासाविषुर् मतिम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc