भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.013

9.013.01

सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
वायोर् इन्द्रस्य निष्कृतम् ॥

9.013.02

पवमानम् अवस्यवो विप्रम् अभि प्र गायत ।
सुष्वाणं देववीतये ॥

9.013.03

पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
गृणाना देववीतये ॥

9.013.04

उत नो वाजसातये पवस्व बृहतीर् इषः ।
द्युमद् इन्दो सुवीर्यम् ॥

9.013.05

ते नः सहस्रिणं रयिम् पवन्ताम् आ सुवीर्यम् ।
सुवाना देवास इन्दवः ॥

9.013.06

अत्या हियाना न हेतृभिर् असृग्रं वाजसातये ।
वि वारम् अव्यम् आशवः ॥

9.013.07

वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न धेनवः ।
दधन्विरे गभस्त्योः ॥

9.013.08

जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
विश्वा अप द्विषो जहि ॥

9.013.09

अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
योनाव् ऋतस्य सीदत ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc