भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.012

9.012.01

सोमा असृग्रम् इन्दवः सुता ऋतस्य सादने ।
इन्द्राय मधुमत्तमाः ॥

9.012.02

अभि विप्रा अनूषत गावो वत्सं न मातरः ।
इन्द्रं सोमस्य पीतये ॥

9.012.03

मदच्युत् क्षेति सादने सिन्धोर् ऊर्मा विपश्चित् ।
सोमो गौरी अधि श्रितः ॥

9.012.04

दिवो नाभा विचक्षणो ऽव्यो वारे महीयते ।
सोमो यः सुक्रतुः कविः ॥

9.012.05

यः सोमः कलशेष्व् आँ अन्तः पवित्र आहितः ।
तम् इन्दुः परि षस्वजे ॥

9.012.06

प्र वाचम् इन्दुर् इष्यति समुद्रस्याधि विष्टपि ।
जिन्वन् कोशम् मधुश्चुतम् ॥

9.012.07

नित्यस्तोत्रो वनस्पतिर् धीनाम् अन्तः सबर्दुघः ।
हिन्वानो मानुषा युगा ॥

9.012.08

अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति ।
विप्रस्य धारया कविः ॥

9.012.09

आ पवमान धारय रयिं सहस्रवर्चसम् ।
अस्मे इन्दो स्वाभुवम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc