ऋग्वेद · अध्याय 9.011
उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवाँ इयक्षते ॥
अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः ।
देवं देवाय देवयु ॥
स नः पवस्व शं गवे शं जनाय शम् अर्वते ।
शं राजन्न् ओषधीभ्यः ॥
बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे ।
सोमाय गाथम् अर्चत ॥
हस्तच्युतेभिर् अद्रिभिः सुतं सोमम् पुनीतन ।
मधाव् आ धावता मधु ॥
नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन ।
इन्दुम् इन्द्रे दधातन ॥
अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
देवेभ्यो अनुकामकृत् ॥
इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
मनश्चिन् मनसस् पतिः ॥
पवमान सुवीर्यं रयिं सोम रिरीहि नः ।
इन्दव् इन्द्रेण नो युजा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0