ऋग्वेद · अध्याय 9.010
प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः ।
सोमासो राये अक्रमुः ॥
हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
भरासः कारिणाम् इव ॥
राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते ।
यज्ञो न सप्त धातृभिः ॥
परि सुवानास इन्दवो मदाय बर्हणा गिरा ।
सुता अर्षन्ति धारया ॥
आपानासो विवस्वतो जनन्त उषसो भगम् ।
सूरा अण्वं वि तन्वते ॥
अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः ।
वृष्णो हरस आयवः ॥
समीचीनास आसते होतारः सप्तजामयः ।
पदम् एकस्य पिप्रतः ॥
नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा ।
कवेर् अपत्यम् आ दुहे ॥
अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् ।
सूरः पश्यति चक्षसा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0