ऋग्वेद · अध्याय 9.009
परि प्रिया दिवः कविर् वयांसि नप्त्योर् हितः ।
सुवानो याति कविक्रतुः ॥
प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे ।
वीत्य् अर्ष चनिष्ठया ॥
स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् ।
महान् मही ऋतावृधा ॥
स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः ।
या एकम् अक्षि वावृधुः ॥
ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः ।
इन्दुम् इन्द्र तव व्रते ॥
अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः ।
क्रिविर् देवीर् अतर्पयत् ॥
अवा कल्पेषु नः पुमस् तमांसि सोम योध्या ।
तानि पुनान जङ्घनः ॥
नू नव्यसे नवीयसे सूक्ताय साधया पथः ।
प्रत्नवद् रोचया रुचः ॥
पवमान महि श्रवो गाम् अश्वं रासि वीरवत् ।
सना मेधां सना स्वः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0