भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.008

9.008.01

एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् ।
वर्धन्तो अस्य वीर्यम् ॥

9.008.02

पुनानासश् चमूषदो गच्छन्तो वायुम् अश्विना ।
ते नो धान्तु सुवीर्यम् ॥

9.008.03

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
ऋतस्य योनिम् आसदम् ॥

9.008.04

मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः ।
अनु विप्रा अमादिषुः ॥

9.008.05

देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः ।
सं गोभिर् वासयामसि ॥

9.008.06

पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः ।
परि गव्यान्य् अव्यत ॥

9.008.07

मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
इन्दो सखायम् आ विश ॥

9.008.08

वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि ।
सहो नः सोम पृत्सु धाः ॥

9.008.09

नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् ।
भक्षीमहि प्रजाम् इषम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc