भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.007

9.007.01

असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः ।
विदाना अस्य योजनम् ॥

9.007.02

प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते ।
हविर् हविष्षु वन्द्यः ॥

9.007.03

प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने ।
सद्माभि सत्यो अध्वरः ॥

9.007.04

परि यत् काव्या कविर् नृम्णा वसानो अर्षति ।
स्वर् वाजी सिषासति ॥

9.007.05

पवमानो अभि स्पृधो विशो राजेव सीदति ।
यद् ईम् ऋण्वन्ति वेधसः ॥

9.007.06

अव्यो वारे परि प्रियो हरिर् वनेषु सीदति ।
रेभो वनुष्यते मती ॥

9.007.07

स वायुम् इन्द्रम् अश्विना साकम् मदेन गच्छति ।
रणा यो अस्य धर्मभिः ॥

9.007.08

आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः ।
विदाना अस्य शक्मभिः ॥

9.007.09

अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये ।
श्रवो वसूनि सं जितम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc