भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.006

9.006.01

मन्द्रया सोम धारया वृषा पवस्व देवयुः ।
अव्यो वारेष्व् अस्मयुः ॥

9.006.02

अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर ।
अभि वाजिनो अर्वतः ॥

9.006.03

अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ ।
अभि वाजम् उत श्रवः ॥

9.006.04

अनु द्रप्सास इन्दव आपो न प्रवतासरन् ।
पुनाना इन्द्रम् आशत ॥

9.006.05

यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश ।
वने क्रीळन्तम् अत्यविम् ॥

9.006.06

तं गोभिर् वृषणं रसम् मदाय देववीतये ।
सुतम् भराय सं सृज ॥

9.006.07

देवो देवाय धारयेन्द्राय पवते सुतः ।
पयो यद् अस्य पीपयत् ॥

9.006.08

आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः ।
प्रत्नं नि पाति काव्यम् ॥

9.006.09

एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये ।
गुहा चिद् दधिषे गिरः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc