ऋग्वेद · अध्याय 9.005
समिद्धो विश्वतस् पतिः पवमानो वि राजति ।
प्रीणन् वृषा कनिक्रदत् ॥
तनूनपात् पवमानः शृङ्गे शिशानो अर्षति ।
अन्तरिक्षेण रारजत् ॥
ईळेन्यः पवमानो रयिर् वि राजति द्युमान् ।
मधोर् धाराभिर् ओजसा ॥
बर्हिः प्राचीनम् ओजसा पवमानः स्तृणन् हरिः ।
देवेषु देव ईयते ॥
उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः ।
पवमानेन सुष्टुताः ॥
सुशिल्पे बृहती मही पवमानो वृषण्यति ।
नक्तोषासा न दर्शते ॥
उभा देवा नृचक्षसा होतारा दैव्या हुवे ।
पवमान इन्द्रो वृषा ॥
भारती पवमानस्य सरस्वतीळा मही ।
इमं नो यज्ञम् आ गमन् तिस्रो देवीः सुपेशसः ॥
त्वष्टारम् अग्रजां गोपाम् पुरोयावानम् आ हुवे ।
इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥
वनस्पतिम् पवमान मध्वा सम् अङ्ग्धि धारया ।
सहस्रवल्शं हरितम् भ्राजमानं हिरण्ययम् ॥
विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत ।
वायुर् बृहस्पतिः सूर्यो ऽग्निर् इन्द्रः सजोषसः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0