भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.001

9.001.01

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥

9.001.02

रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् ।
द्रुणा सधस्थम् आसदत् ॥

9.001.03

वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः ।
पर्षि राधो मघोनाम् ॥

9.001.04

अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा ।
अभि वाजम् उत श्रवः ॥

9.001.05

त्वाम् अच्छा चरामसि तद् इद् अर्थं दिवे-दिवे ।
इन्दो त्वे न आशसः ॥

9.001.06

पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥

9.001.07

तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश ।
स्वसारः पार्ये दिवि ॥

9.001.08

तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम् ।
त्रिधातु वारणम् मधु ॥

9.001.09

अभी3मम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् ।
सोमम् इन्द्राय पातवे ॥

9.001.10

अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते ।
शूरो मघा च मंहते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc