भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.097

8.097.01

या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः ।
स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥

8.097.02

यम् इन्द्र दधिषे त्वम् अश्वं गाम् भागम् अव्ययम् ।
यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥

8.097.03

य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः ।
स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं ततः ॥

8.097.04

यच् छक्रासि परावति यद् अर्वावति वृत्रहन् ।
अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः सुतावाँ आ विवासति ॥

8.097.05

यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि ।
यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि ॥

8.097.06

स नः सोमेषु सोमपाः सुतेषु शवसस् पते ।
मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥

8.097.07

मा न इन्द्र परा वृणग् भवा नः सधमाद्यः ।
त्वं न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक् ॥

8.097.08

अस्मे इन्द्र सचा सुते नि षदा पीतये मधु ।
कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते ॥

8.097.09

न त्वा देवास आशत न मर्त्यासो अद्रिवः ।
विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत ॥

8.097.10

विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे ।
क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ॥

8.097.11

सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।
स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ॥

8.097.12

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः ॥

8.097.13

तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि ।
मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ॥

8.097.14

त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै ।
त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा ॥

8.097.15

तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति पर्षि भूरि ।
कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc