ऋग्वेद · अध्याय 8.096
अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः ।
अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः सुपाराः ॥
अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् ।
न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥
इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम् ओजः ।
शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या उपाके ॥
मन्ये त्वा यज्ञियं यज्ञियानाम् मन्ये त्वा च्यवनम् अच्युतानाम् ।
मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभं चर्षणीनाम् ॥
आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा उ ।
प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥
तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् ।
इन्द्रेण मित्रं दिधिषेम गीर्भिर् उपो नमोभिर् वृषभं विशेम ॥
वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये सखायः ।
मरुद्भिर् इन्द्र सख्यं ते अस्त्व् अथेमा विश्वाः पृतना जयासि ॥
त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।
उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥
तिग्मम् आयुधम् मरुताम् अनीकं कस् त इन्द्र प्रति वज्रं दधर्ष ।
अनायुधासो असुरा अदेवाश् चक्रेण ताँ अप वप ऋजीषिन् ॥
मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः ।
गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत् ॥
उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम् ।
नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत् ॥
तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा विवास ।
उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् अङ्ग वेदत् ॥
अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः ।
आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ॥
द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः ।
नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ॥
अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः ।
विशो अदेवीर् अभ्य् आ3चरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ॥
त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र ।
गूळ्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥
त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ ।
त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ॥
त्वं ह त्यद् वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
त्वं सिन्धूँर् असृजस् तस्तभानान् त्वम् अपो अजयो दासपत्नीः ॥
स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान् ।
य एक इन् नर्य् अपांसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः ॥
स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं हुवेम ।
स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥
स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0