भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.095

8.095.01

आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः ।
अभि त्वा सम् अनूषतेन्द्र वत्सं न मातरः ॥

8.095.02

आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
पिबा त्व् अ1स्यान्धस इन्द्र विश्वासु ते हितम् ॥

8.095.03

पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतं सुतम् ।
त्वं हि शश्वतीनाम् पती राजा विशाम् असि ॥

8.095.04

श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति ।
सुवीर्यस्य गोमतो रायस् पूर्धि महाँ असि ॥

8.095.05

इन्द्र यस् ते नवीयसीं गिरम् मन्द्राम् अजीजनत् ।
चिकित्विन्मनसं धियम् प्रत्नाम् ऋतस्य पिप्युषीम् ॥

8.095.06

तम् उ ष्टवाम यं गिर इन्द्रम् उक्थानि वावृधुः ।
पुरूण्य् अस्य पौंस्या सिषासन्तो वनामहे ॥

8.095.07

एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
शुद्धैर् उक्थैर् वावृध्वांसं शुद्ध आशीर्वान् ममत्तु ॥

8.095.08

इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः ।
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥

8.095.09

इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc