भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.090

8.090.01

आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥

8.090.02

त्वं दाता प्रथमो राधसाम् अस्य् असि सत्य ईशानकृत् ।
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥

8.090.03

ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता ।
इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥

8.090.04

त्वं हि सत्यो मघवन्न् अनानतो वृत्रा भूरि न्यृञ्जसे ।
स त्वं शविष्ठ वज्रहस्त दाशुषे ऽर्वाञ्चं रयिम् आ कृधि ॥

8.090.05

त्वम् इन्द्र यशा अस्य् ऋजीषी शवसस् पते ।
त्वं वृत्राणि हंस्य् अप्रतीन्य् एक इद् अनुत्ता चर्षणीधृता ॥

8.090.06

तम् उ त्वा नूनम् असुर प्रचेतसं राधो भागम् इवेमहे ।
महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc