ऋग्वेद · अध्याय 8.089
बृहद् इन्द्राय गायत मरुतो वृत्रहंतमम् ।
येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥
अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् ।
देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रं हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥
अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् ।
अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥
यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय ।
तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ॥
तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः ।
तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ॥
आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि ।
घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे बृहत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0