भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.088

8.088.01

तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ॥

8.088.02

द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् ।
क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम् ईमहे ॥

8.088.03

न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते ॥

8.088.04

योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥

8.088.05

प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि ।
न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधां ववक्षिथ ॥

8.088.06

नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे दशस्यसि ।
अस्माकम् बोध्य् उचथस्य चोदिता मंहिष्ठो वाजसातये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc