भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.087

8.087.01

द्युम्नी वां स्तोमो अश्विना क्रिविर् न सेक आ गतम् ।
मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराव् इवेरिणे ॥

8.087.02

पिबतं घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतं नरा ।
ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥

8.087.03

आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत ।
ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥

8.087.04

पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् ।
ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ॥

8.087.05

आ नूनं यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः ।
दस्रा हिरण्यवर्तनी शुभस् पती पातं सोमम् ऋतावृधा ॥

8.087.06

वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्य् आ गतम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc