भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.083

8.083.01

देवानाम् इद् अवो महत् तद् आ वृणीमहे वयम् ।
वृष्णाम् अस्मभ्यम् ऊतये ॥

8.083.02

ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
वृधासश् च प्रचेतसः ॥

8.083.03

अति नो विष्पिता पुरु नौभिर् अपो न पर्षथ ।
यूयम् ऋतस्य रथ्यः ॥

8.083.04

वामं नो अस्त्व् अर्यमन् वामं वरुण शंस्यम् ।
वामं ह्य् आवृणीमहे ॥

8.083.05

वामस्य हि प्रचेतस ईशानाशो रिशादसः ।
नेम् आदित्या अघस्य यत् ॥

8.083.06

वयम् इद् वः सुदानवः क्षियन्तो यान्तो अध्वन्न् आ ।
देवा वृधाय हूमहे ॥

8.083.07

अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
इता मरुतो अश्विना ॥

8.083.08

प्र भ्रातृत्वं सुदानवो ऽध द्विता समान्या ।
मातुर् गर्भे भरामहे ॥

8.083.09

यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
अधा चिद् व उत ब्रुवे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc