ऋग्वेद · अध्याय 8.082
आ प्र द्रव परावतो ऽर्वावतश् च वृत्रहन् ।
मध्वः प्रति प्रभर्मणि ॥
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
पिबा दधृग् यथोचिषे ॥
इषा मन्दस्वाद् उ ते ऽरं वराय मन्यवे ।
भुवत् त इन्द्र शं हृदे ॥
आ त्व् अशत्रव् आ गहि न्य् उ1क्थानि च हूयसे ।
उपमे रोचने दिवः ॥
तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
प्र सोम इन्द्र हूयते ॥
इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः ।
वि पीतिं तृप्तिम् अश्नुहि ॥
य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः ।
पिबेद् अस्य त्वम् ईशिषे ॥
यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे ।
पिबेद् अस्य त्वम् ईशिषे ॥
यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् ।
पिबेद् अस्य त्वम् ईशिषे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0