ऋग्वेद · अध्याय 8.075
युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीर् इव ।
नि होता पूर्व्यः सदः ॥
उत नो देव देवाँ अच्छा वोचो विदुष्टरः ।
श्रद् विश्वा वार्या कृधि ॥
त्वं ह यद् यविष्ठ्य सहसः सूनव् आहुत ।
ऋतावा यज्ञियो भुवः ॥
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।
मूर्धा कवी रयीणाम् ॥
तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः ।
नेदीयो यज्ञम् अङ्गिरः ॥
तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया ।
वृष्णे चोदस्व सुष्टुतिम् ॥
कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः ।
पणिं गोषु स्तरामहे ॥
मा नो देवानां विशः प्रस्नातीर् इवोस्राः ।
कृशं न हासुर् अघ्न्याः ॥
मा नः समस्य दूढ्य1ः परिद्वेषसो अंहतिः ।
ऊर्मिर् न नावम् आ वधीत् ॥
नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
अमैर् अमित्रम् अर्दय ॥
कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् ।
उरुकृद् उरु णस् कृधि ॥
मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा ।
संवर्गं सं रयिं जय ॥
अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना ।
वर्धा नो अमवच् छवः ॥
यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा ।
तं घेद् अग्निर् वृधावति ॥
परस्या अधि संवतो ऽवराँ अभ्य् आ तर ।
यत्राहम् अस्मि ताँ अव ॥
विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः ।
अधा ते सुम्नम् ईमहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0