ऋग्वेद · अध्याय 8.062
प्रो अस्मा उपस्तुतिम् भरता यज् जुजोषति ।
उक्थैर् इन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥
अयुजो असमो नृभिर् एकः कृष्टीर् अयास्यः ।
पूर्वीर् अति प्र वावृधे विश्वा जातान्य् ओजसा भद्रा इन्द्रस्य रातयः ॥
अहितेन चिद् अर्वता जीरदानुः सिषासति ।
प्रवाच्यम् इन्द्र तत् तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥
आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना ।
येभिः शविष्ठ चाकनो भद्रम् इह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥
धृषतश् चिद् धृषन् मनः कृणोषीन्द्र यत् त्वम् ।
तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥
अव चष्ट ऋचीषमो ऽवताँ इव मानुषः ।
जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजम् भद्रा इन्द्रस्य रातयः ॥
विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः ।
भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥
गृणे तद् इन्द्र ते शव उपमं देवतातये ।
यद् धंसि वृत्रम् ओजसा शचीपते भद्रा इन्द्रस्य रातयः ॥
समनेव वपुष्यतः कृणवन् मानुषा युगा ।
विदे तद् इन्द्रश् चेतनम् अध श्रुतो भद्रा इन्द्रस्य रातयः ॥
उज् जातम् इन्द्र ते शव उत् त्वाम् उत् तव क्रतुम् ।
भूरिगो भूरि वावृधुर् मघवन् तव शर्मणि भद्रा इन्द्रस्य रातयः ॥
अहं च त्वं च वृत्रहन् सं युज्याव सनिभ्य आ ।
अरातीवा चिद् अद्रिवो ऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥
सत्यम् इद् वा उ तं वयम् इन्द्रं स्तवाम नानृतम् ।
महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0