ऋग्वेद · अध्याय 8.061
उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः ।
सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥
तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः ।
उतोपमानाम् प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।
विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टं चिद् दधृष्वणिम् ॥
अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः ।
सनेम वाजं तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः ॥
शग्ध्य् ऊ3 षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥
पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः ।
नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर ॥
त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये ।
उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये ॥
त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे ॥
अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः ।
स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहंसन ॥
उग्रबाहुर् म्रक्षकृत्वा पुरंदरो यदि मे शृणवद् धवम् ।
वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥
न पापासो मनामहे नारायासो न जळ्हवः ।
यद् इन् न्व् इन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥
उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् ।
वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत् ॥
यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि ॥
त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।
तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥
इन्द्रः स्पळ् उत वृत्रहा परस्पा नो वरेण्यः ।
स नो रक्षिषच् चरमं स मध्यमं स पश्चात् पातु नः पुरः ॥
त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः ।
आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ॥
अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः ।
विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तं च रक्षिषः ॥
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0