भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.060

8.060.01

अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे ।
आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिर् आसदे ॥

8.060.02

अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे ।
ऊर्जो नपातं घृतकेशम् ईमहे ऽग्निं यज्ञेषु पूर्व्यम् ॥

8.060.03

अग्ने कविर् वेधा असि होता पावक यक्ष्यः ।
मन्द्रो यजिष्ठो अध्वरेष्व् ईड्यो विप्रेभिः शुक्र मन्मभिः ॥

8.060.04

अद्रोघम् आ वहोशतो यविष्ठ्य देवाँ अजस्र वीतये ।
अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर् हितः ॥

8.060.05

त्वम् इत् सप्रथा अस्य् अग्ने त्रातर् ऋतस् कविः ।
त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥

8.060.06

शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि ।
देवानां शर्मन् मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥

8.060.07

यथा चिद् वृद्धम् अतसम् अग्ने संजूर्वसि क्षमि ।
एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति ॥

8.060.08

मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
अस्रेधद्भिस् तरणिभिर् यविष्ठ्य शिवेभिः पाहि पायुभिः ॥

8.060.09

पाहि नो अग्न एकया पाह्य् उ1त द्वितीयया ।
पाहि गीर्भिस् तिसृभिर् ऊर्जाम् पते पाहि चतसृभिर् वसो ॥

8.060.10

पाहि विश्वस्माद् रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव ।
त्वाम् इद् धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥

8.060.11

आ नो अग्ने वयोवृधं रयिम् पावक शंस्यम् ।
रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥

8.060.12

येन वंसाम पृतनासु शर्धतस् तरन्तो अर्य आदिशः ।
स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥

8.060.13

शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।
तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥

8.060.14

नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद् वितिष्ठसे ।
स त्वं नो होतः सुहुतं हविष् कृधि वंस्वा नो वार्या पुरु ॥

8.060.15

शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते ।
अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि ॥

8.060.16

सप्त होतारस् तम् इद् ईळते त्वाग्ने सुत्यजम् अह्रयम् ।
भिनत्स्य् अद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति ॥

8.060.17

अग्निम्-अग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
अग्निं हितप्रयसः शश्वतीष्व् आ होतारं चर्षणीनाम् ॥

8.060.18

केतेन शर्मन् सचते सुषामण्य् अग्ने तुभ्यं चिकित्वना ।
इषण्यया नः पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥

8.060.19

अग्ने जरितर् विश्पतिस् तेपानो देव रक्षसः ।
अप्रोषिवान् गृहपतिर् महाँ असि दिवस् पायुर् दुरोणयुः ॥

8.060.20

मा नो रक्ष आ वेशीद् आघृणीवसो मा यातुर् यातुमावताम् ।
परोगव्यूत्य् अनिराम् अप क्षुधम् अग्ने सेध रक्षस्विनः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc