ऋग्वेद · अध्याय 8.059
इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् ।
यज्ञे-यज्ञे ह सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ॥
निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम् आशत ।
या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव ओहते ॥
सत्यं तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिं दुहते सप्त वाणीः ।
ताभिर् दाश्वांसम् अवतं शुभस् पती यो वाम् अदब्धो अभि पाति चित्तिभिः ॥
घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य ।
या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तं यजमानाय शिक्षतम् ॥
अवोचाम महते सौभगाय सत्यं त्वेषाभ्याम् महिमानम् इन्द्रियम् ।
अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतं शुभस् पती ॥
इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम् अदत्तम् अग्रे ।
यानि स्थानान्य् असृजन्त धीरा यज्ञं तन्वानास् तपसाभ्य् अपश्यम् ॥
इन्द्रावरुणा सौमनसम् अदृप्तं रायस् पोषं यजमानेषु धत्तम् ।
प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0