ऋग्वेद · अध्याय 8.058
यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञम् इमं वहन्ति ।
यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य संवित् ॥
एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु प्रभूतः ।
एकैवोषाः सर्वम् इदं वि भात्य् एकं वा इदं वि बभूव सर्वम् ॥
ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदम् भूरिवारम् ।
चित्रामघा यस्य योगे ऽधिजज्ञे तं वां हुवे अति रिक्तम् पिबध्यै ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0