ऋग्वेद · अध्याय 8.057
युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।
आगच्छतं नासत्या शचीभिर् इदं तृतीयं सवनम् पिबाथः ॥
युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।
अस्माकं यज्ञं सवनं जुषाणा पातं सोमम् अश्विना दीद्यग्नी ॥
पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत् ताँ उप याता पिबध्यै ॥
अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं शचीभिः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0