ऋग्वेद · अध्याय 8.056
प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् ।
द्यौर् न प्रथिना शवः ॥
दश मह्यम् पौतक्रतः सहस्रा दस्यवे वृकः ।
नित्याद् रायो अमंहत ॥
शतम् मे गर्दभानां शतम् ऊर्णावतीनाम् ।
शतं दासाँ अति स्रजः ॥
तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
अश्वानाम् इन् न यूथ्याम् ॥
अचेत्य् अग्निश् चिकितुर् हव्यवाट् स सुमद्रथः ।
अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो अरोचत ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0