भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.046

8.046.01

त्वावतः पुरूवसो वयम् इन्द्र प्रणेतः ।
स्मसि स्थातर् हरीणाम् ॥

8.046.02

त्वां हि सत्यम् अद्रिवो विद्म दातारम् इषाम् ।
विद्म दातारं रयीणाम् ॥

8.046.03

आ यस्य ते महिमानं शतमूते शतक्रतो ।
गीर्भिर् गृणन्ति कारवः ॥

8.046.04

सुनीथो घा स मर्त्यो यम् मरुतो यम् अर्यमा ।
मित्रः पान्त्य् अद्रुहः ॥

8.046.05

दधानो गोमद् अश्ववत् सुवीर्यम् आदित्यजूत एधते ।
सदा राया पुरुस्पृहा ॥

8.046.06

तम् इन्द्रं दानम् ईमहे शवसानम् अभीर्वम् ।
ईशानं राय ईमहे ॥

8.046.07

तस्मिन् हि सन्त्य् ऊतयो विश्वा अभीरवः सचा ।
तम् आ वहन्तु सप्तयः पुरूवसुम् मदाय हरयः सुतम् ॥

8.046.08

यस् ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः ।
य आददिः स्व1र् नृभिर् यः पृतनासु दुष्टरः ॥

8.046.09

यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्व् अस्ति तरुता ।
स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥

8.046.10

गव्यो षु णो यथा पुराश्वयोत रथया ।
वरिवस्य महामह ॥

8.046.11

नहि ते शूर राधसो ऽन्तं विन्दामि सत्रा ।
दशस्या नो मघवन् नू चिद् अद्रिवो धियो वाजेभिर् आविथ ॥

8.046.12

य ऋष्वः श्रावयत्सखा विश्वेत् स वेद जनिमा पुरुष्टुतः ।
तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥

8.046.13

स नो वाजेष्व् अविता पुरूवसुः पुरःस्थाता मघवा वृत्रहा भुवत् ॥

8.046.14

अभि वो वीरम् अन्धसो मदेषु गाय गिरा महा विचेतसम् ।
इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥

8.046.15

ददी रेक्णस् तन्वे ददिर् वसु ददिर् वाजेषु पुरुहूत वाजिनम् ।
नूनम् अथ ॥

8.046.16

विश्वेषाम् इरज्यन्तं वसूनां सासह्वांसं चिद् अस्य वर्पसः ।
कृपयतो नूनम् अत्य् अथ ॥

8.046.17

महः सु वो अरम् इषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये ।
यज्ञेभिर् गीर्भिर् विश्वमनुषाम् मरुताम् इयक्षसि गाये त्वा नमसा गिरा ॥

8.046.18

ये पातयन्ते अज्मभिर् गिरीणां स्नुभिर् एषाम् ।
यज्ञम् महिष्वणीनां सुम्नं तुविष्वणीनाम् प्राध्वरे ॥

8.046.19

प्रभङ्गं दुर्मतीनाम् इन्द्र शविष्ठा भर ।
रयिम् अस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥

8.046.20

सनितः सुसनितर् उग्र चित्र चेतिष्ठ सूनृत ।
प्रासहा सम्राट् सहुरिं सहन्तम् भुज्युं वाजेषु पूर्व्यम् ॥

8.046.21

आ स एतु य ईवद् आँ अदेवः पूर्तम् आददे ।
यथा चिद् वशो अश्व्यः पृथुश्रवसि कानीते3 ऽस्या व्युष्य् आददे ॥

8.046.22

षष्टिं सहस्राश्व्यस्यायुतासनम् उष्ट्रानां विंशतिं शता ।
दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥

8.046.23

दश श्यावा ऋधद्रयो वीतवारास आशवः ।
मथ्रा नेमिं नि वावृतुः ॥

8.046.24

दानासः पृथुश्रवसः कानीतस्य सुराधसः ।
रथं हिरण्ययं ददन् मंहिष्ठः सूरिर् अभूद् वर्षिष्ठम् अकृत श्रवः ॥

8.046.25

आ नो वायो महे तने याहि मखाय पाजसे ।
वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने ॥

8.046.26

यो अश्वेभिर् वहते वस्त उस्रास् त्रिः सप्त सप्ततीनाम् ।
एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥

8.046.27

यो म इमं चिद् उ त्मनामन्दच् चित्रं दावने ।
अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥

8.046.28

उचथ्ये3 वपुषि यः स्वराळ् उत वायो घृतस्नाः ।
अश्वेषितं रजेषितं शुनेषितम् प्राज्म तद् इदं नु तत् ॥

8.046.29

अध प्रियम् इषिराय षष्टिं सहस्रासनम् ।
अश्वानाम् इन् न वृष्णाम् ॥

8.046.30

गावो न यूथम् उप यन्ति वध्रय उप मा यन्ति वध्रयः ॥

8.046.31

अध यच् चारथे गणे शतम् उष्ट्राँ अचिक्रदत् ।
अध श्वित्नेषु विंशतिं शता ॥

8.046.32

शतं दासे बल्बूथे विप्रस् तरुक्ष आ ददे ।
ते ते वायव् इमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥

8.046.33

अध स्या योषणा मही प्रतीची वशम् अश्व्यम् ।
अधिरुक्मा वि नीयते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc