ऋग्वेद · अध्याय 8.045
आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।
येषाम् इन्द्रो युवा सखा ॥
बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः ।
येषाम् इन्द्रो युवा सखा ॥
अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः ।
येषाम् इन्द्रो युवा सखा ॥
आ बुन्दं वृत्रहा ददे जातः पृच्छद् वि मातरम् ।
क उग्राः के ह शृण्विरे ॥
प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् ।
यस् ते शत्रुत्वम् आचके ॥
उत त्वम् मघवञ् छृणु यस् ते वष्टि ववक्षि तत् ।
यद् वीळयासि वीळु तत् ॥
यद् आजिं यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप ।
रथीतमो रथीनाम् ॥
वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह ।
भवा नः सुश्रवस्तमः ॥
अस्माकं सु रथम् पुर इन्द्रः कृणोतु सातये ।
न यं धूर्वन्ति धूर्तयः ॥
वृज्याम ते परि द्विषो ऽरं ते शक्र दावने ।
गमेमेद् इन्द्र गोमतः ॥
शनैश् चिद् यन्तो अद्रिवो ऽश्वावन्तः शतग्विनः ।
विवक्षणा अनेहसः ॥
ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता ।
जरितृभ्यो विमंहते ॥
विद्मा हि त्वा धनंजयम् इन्द्र दृळ्हा चिद् आरुजम् ।
आदारिणं यथा गयम् ॥
ककुहं चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः ।
आ त्वा पणिं यद् ईमहे ॥
यस् ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये ।
तस्य नो वेद आ भर ॥
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
पुष्टावन्तो यथा पशुम् ॥
उत त्वाबधिरं वयं श्रुत्कर्णं सन्तम् ऊतये ।
दूराद् इह हवामहे ॥
यच् छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
भवेर् आपिर् नो अन्तमः ॥
यच् चिद् धि ते अपि व्यथिर् जगन्वांसो अमन्महि ।
गोदा इद् इन्द्र बोधि नः ॥
आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस् पते ।
उश्मसि त्वा सधस्थ आ ॥
स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने ।
नकिर् यं वृण्वते युधि ॥
अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्य् अश्नुही मदम् ॥
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
माकीम् ब्रह्मद्विषो वनः ॥
इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
सरो गौरो यथा पिब ॥
या वृत्रहा परावति सना नवा च चुच्युवे ।
ता संसत्सु प्र वोचत ॥
अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे ।
अत्रादेदिष्ट पौंस्यम् ॥
सत्यं तत् तुर्वशे यदौ विदानो अह्नवाय्यम् ।
व्य् आनट् तुर्वणे शमि ॥
तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
समानम् उ प्र शंसिषम् ॥
ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
इन्द्रं सोमे सचा सुते ॥
यः कृन्तद् इद् वि योन्यं त्रिशोकाय गिरिम् पृथुम् ।
गोभ्यो गातुं निरेतवे ॥
यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि ।
मा तत् कर् इन्द्र मृळय ॥
दभ्रं चिद् धि त्वावतः कृतं शृण्वे अधि क्षमि ।
जिगात्व् इन्द्र ते मनः ॥
तवेद् उ ताः सुकीर्तयो ऽसन्न् उत प्रशस्तयः ।
यद् इन्द्र मृळयासि नः ॥
मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु ।
वधीर् मा शूर भूरिषु ॥
बिभया हि त्वावत उग्राद् अभिप्रभङ्गिणः ।
दस्माद् अहम् ऋतीषहः ॥
मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो ।
आवृत्वद् भूतु ते मनः ॥
को नु मर्या अमिथितः सखा सखायम् अब्रवीत् ।
जहा को अस्मद् ईषते ॥
एवारे वृषभा सुते ऽसिन्वन् भूर्य् आवयः ।
श्वघ्नीव निवता चरन् ॥
आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
यद् ईम् ब्रह्मभ्य इद् ददः ॥
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तद् आ भर ॥
यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् ।
वसु स्पार्हं तद् आ भर ॥
यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति ।
वसु स्पार्हं तद् आ भर ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0