ऋग्वेद · अध्याय 8.044
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥
अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।
प्रति सूक्तानि हर्य नः ॥
अग्निं दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे ।
देवाँ आ सादयाद् इह ॥
उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
अग्ने शुक्रास ईरते ॥
उप त्वा जुह्वो3 मम घृताचीर् यन्तु हर्यत ।
अग्ने हव्या जुषस्व नः ॥
मन्द्रं होतारम् ऋत्विजं चित्रभानुं विभावसुम् ।
अग्निम् ईळे स उ श्रवत् ॥
प्रत्नं होतारम् ईड्यं जुष्टम् अग्निं कविक्रतुम् ।
अध्वराणाम् अभिश्रियम् ॥
जुषाणो अङ्गिरस्तमेमा हव्यान्य् आनुषक् ।
अग्ने यज्ञं नय ऋतुथा ॥
समिधान उ सन्त्य शुक्रशोच इहा वह ।
चिकित्वान् दैव्यं जनम् ॥
विप्रं होतारम् अद्रुहं धूमकेतुं विभावसुम् ।
यज्ञानां केतुम् ईमहे ॥
अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः ।
भिन्धि द्वेषः सहस्कृत ॥
अग्निः प्रत्नेन मन्मना शुम्भानस् तन्व1ं स्वाम् ।
कविर् विप्रेण वावृधे ॥
ऊर्जो नपातम् आ हुवे ऽग्निम् पावकशोचिषम् ।
अस्मिन् यज्ञे स्वध्वरे ॥
स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा ।
देवैर् आ सत्सि बर्हिषि ॥
यो अग्निं तन्वो3 दमे देवम् मर्तः सपर्यति ।
तस्मा इद् दीदयद् वसु ॥
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् ।
अपां रेतांसि जिन्वति ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतींष्य् अर्चयः ॥
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।
स्तोता स्यां तव शर्मणि ॥
त्वाम् अग्ने मनीषिणस् त्वां हिन्वन्ति चित्तिभिः ।
त्वां वर्धन्तु नो गिरः ॥
अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।
अग्नेः सख्यं वृणीमहे ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः ।
शुची रोचत आहुतः ॥
उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा ।
अग्ने सख्यस्य बोधि नः ॥
यद् अग्ने स्याम् अहं त्वं त्वं वा घा स्या अहम् ।
स्युष् टे सत्या इहाशिषः ॥
वसुर् वसुपतिर् हि कम् अस्य् अग्ने विभावसुः ।
स्याम ते सुमताव् अपि ॥
अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः ।
गिरो वाश्रास ईरते ॥
युवानं विश्पतिं कविं विश्वादम् पुरुवेपसम् ।
अग्निं शुम्भामि मन्मभिः ॥
यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे ।
स्तोमैर् इषेमाग्नये ॥
अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य ।
तस्मै पावक मृळय ॥
धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा ।
अग्ने दीदयसि द्यवि ॥
पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।
प्र ण आयुर् वसो तिर ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0