भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.043

8.043.01

इमे विप्रस्य वेधसो ऽग्नेर् अस्तृतयज्वनः ।
गिरः स्तोमास ईरते ॥

8.043.02

अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
अग्ने जनामि सुष्टुतिम् ॥

8.043.03

आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः ।
दद्भिर् वनानि बप्सति ॥

8.043.04

हरयो धूमकेतवो वातजूता उप द्यवि ।
यतन्ते वृथग् अग्नयः ॥

8.043.05

एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत ।
उषसाम् इव केतवः ॥

8.043.06

कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
अग्निर् यद् रोधति क्षमि ॥

8.043.07

धासिं कृण्वान ओषधीर् बप्सद् अग्निर् न वायति ।
पुनर् यन् तरुणीर् अपि ॥

8.043.08

जिह्वाभिर् अह नन्नमद् अर्चिषा जञ्जणाभवन् ।
अग्निर् वनेषु रोचते ॥

8.043.09

अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे ।
गर्भे सञ् जायसे पुनः ॥

8.043.10

उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् ।
निंसानं जुह्वो3 मुखे ॥

8.043.11

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर् विधेमाग्नये ॥

8.043.12

उत त्वा नमसा वयं होतर् वरेण्यक्रतो ।
अग्ने समिद्भिर् ईमहे ॥

8.043.13

उत त्वा भृगुवच् छुचे मनुष्वद् अग्न आहुत ।
अङ्गिरस्वद् धवामहे ॥

8.043.14

त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता ।
सखा सख्या समिध्यसे ॥

8.043.15

स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
अग्ने वीरवतीम् इषम् ॥

8.043.16

अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
इमं स्तोमं जुषस्व मे ॥

8.043.17

उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
गोष्ठं गाव इवाशत ॥

8.043.18

तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
अग्ने कामाय येमिरे ॥

8.043.19

अग्निं धीभिर् मनीषिणो मेधिरासो विपश्चितः ।
अद्मसद्याय हिन्विरे ॥

8.043.20

तं त्वाम् अज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
वह्निं होतारम् ईळते ॥

8.043.21

पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥

8.043.22

तम् ईळिष्व य आहुतो ऽग्निर् विभ्राजते घृतैः ।
इमं नः शृणवद् धवम् ॥

8.043.23

तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
अग्ने घ्नन्तम् अप द्विषः ॥

8.043.24

विशां राजानम् अद्भुतम् अध्यक्षं धर्मणाम् इमम् ।
अग्निम् ईळे स उ श्रवत् ॥

8.043.25

अग्निं विश्वायुवेपसम् मर्यं न वाजिनं हितम् ।
सप्तिं न वाजयामसि ॥

8.043.26

घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षांसि विश्वहा ।
अग्ने तिग्मेन दीदिहि ॥

8.043.27

यं त्वा जनास इन्धते मनुष्वद् अङ्गिरस्तम ।
अग्ने स बोधि मे वचः ॥

8.043.28

यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत ।
तं त्वा गीर्भिर् हवामहे ॥

8.043.29

तुभ्यं घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् ।
धासिं हिन्वन्त्य् अत्तवे ॥

8.043.30

ते घेद् अग्ने स्वाध्यो ऽहा विश्वा नृचक्षसः ।
तरन्तः स्याम दुर्गहा ॥

8.043.31

अग्निम् मन्द्रम् पुरुप्रियं शीरम् पावकशोचिषम् ।
हृद्भिर् मन्द्रेभिर् ईमहे ॥

8.043.32

स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः ।
शर्धन् तमांसि जिघ्नसे ॥

8.043.33

तत् ते सहस्व ईमहे दात्रं यन् नोपदस्यति ।
त्वद् अग्ने वार्यं वसु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc