ऋग्वेद · अध्याय 8.039
अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईळा यजध्यै ।
अग्निर् देवाँ अनक्तु न उभे हि विदथे कविर् अन्तश् चरति दूत्य1ं नभन्ताम् अन्यके समे ॥
न्य् अग्ने नव्यसा वचस् तनूषु शंसम् एषाम् ।
न्य् अराती रराव्णां विश्वा अर्यो अरातीर् इतो युच्छन्त्व् आमुरो नभन्ताम् अन्यके समे ॥
अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।
स देवेषु प्र चिकिद्धि त्वं ह्य् असि पूर्व्यः शिवो दूतो विवस्वतो नभन्ताम् अन्यके समे ॥
तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति ।
ऊर्जाहुतिर् वसूनां शं च योश् च मयो दधे विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे ॥
स चिकेत सहीयसाग्निश् चित्रेण कर्मणा ।
स होता शश्वतीनां दक्षिणाभिर् अभीवृत इनोति च प्रतीव्य1ं नभन्ताम् अन्यके समे ॥
अग्निर् जाता देवानाम् अग्निर् वेद मर्तानाम् अपीच्यम् ।
अग्निः स द्रविणोदा अग्निर् द्वारा व्य् ऊर्णुते स्वाहुतो नवीयसा नभन्ताम् अन्यके समे ॥
अग्निर् देवेषु संवसुः स विक्षु यज्ञियास्व् आ ।
स मुदा काव्या पुरु विश्वम् भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्ताम् अन्यके समे ॥
यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु ।
तम् आगन्म त्रिपस्त्यम् मन्धातुर् दस्युहन्तमम् अग्निं यज्ञेषु पूर्व्यं नभन्ताम् अन्यके समे ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः ।
स त्रीँर् एकादशाँ इह यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे ॥
त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि ।
त्वाम् आपः परिस्रुतः परि यन्ति स्वसेतवो नभन्ताम् अन्यके समे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0