भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.038

8.038.01

यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
इन्द्राग्नी तस्य बोधतम् ॥

8.038.02

तोशासा रथयावाना वृत्रहणापराजिता ।
इन्द्राग्नी तस्य बोधतम् ॥

8.038.03

इदं वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः ।
इन्द्राग्नी तस्य बोधतम् ॥

8.038.04

जुषेथां यज्ञम् इष्टये सुतं सोमं सधस्तुती ।
इन्द्राग्नी आ गतं नरा ॥

8.038.05

इमा जुषेथां सवना येभिर् हव्यान्य् ऊहथुः ।
इन्द्राग्नी आ गतं नरा ॥

8.038.06

इमां गायत्रवर्तनिं जुषेथां सुष्टुतिम् मम ।
इन्द्राग्नी आ गतं नरा ॥

8.038.07

प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू ।
इन्द्राग्नी सोमपीतये ॥

8.038.08

श्यावाश्वस्य सुन्वतो ऽत्रीणां शृणुतं हवम् ।
इन्द्राग्नी सोमपीतये ॥

8.038.09

एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः ।
इन्द्राग्नी सोमपीतये ॥

8.038.10

आहं सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे ।
याभ्यां गायत्रम् ऋच्यते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc