भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.037

8.037.01

प्रेदम् ब्रह्म वृत्रतूर्येष्व् आविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥

8.037.02

सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥

8.037.03

एकराळ् अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥

8.037.04

सस्थावाना यवयसि त्वम् एक इच् छचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥

8.037.05

क्षेमस्य च प्रयुजश् च त्वम् ईशिषे शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥

8.037.06

क्षत्राय त्वम् अवसि न त्वम् आविथ शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः ॥

8.037.07

श्यावाश्वस्य रेभतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः ।
प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc