भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.031

8.031.01

यो यजाति यजात इत् सुनवच् च पचाति च ।
ब्रह्मेद् इन्द्रस्य चाकनत् ॥

8.031.02

पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।
पाद् इत् तं शक्रो अंहसः ॥

8.031.03

तस्य द्युमाँ असद् रथो देवजूतः स शूशुवत् ।
विश्वा वन्वन्न् अमित्रिया ॥

8.031.04

अस्य प्रजावती गृहे ऽसश्चन्ती दिवे-दिवे ।
इळा धेनुमती दुहे ॥

8.031.05

या दम्पती समनसा सुनुत आ च धावतः ।
देवासो नित्ययाशिरा ॥

8.031.06

प्रति प्राशव्याँ इतः सम्यञ्चा बर्हिर् आशाते ।
न ता वाजेषु वायतः ॥

8.031.07

न देवानाम् अपि ह्नुतः सुमतिं न जुगुक्षतः ।
श्रवो बृहद् विवासतः ॥

8.031.08

पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः ।
उभा हिरण्यपेशसा ॥

8.031.09

वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।
सम् ऊधो रोमशं हतो देवेषु कृणुतो दुवः ॥

8.031.10

आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
आ विष्णोः सचाभुवः ॥

8.031.11

ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः ।
उरुर् अध्वा स्वस्तये ॥

8.031.12

अरमतिर् अनर्वणो विश्वो देवस्य मनसा ।
आदित्यानाम् अनेह इत् ॥

8.031.13

यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।
सुगा ऋतस्य पन्थाः ॥

8.031.14

अग्निं वः पूर्व्यं गिरा देवम् ईळे वसूनाम् ।
सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥

8.031.15

मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।
देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

8.031.16

न यजमान रिष्यसि न सुन्वान न देवयो ।
देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

8.031.17

नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ।
देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

8.031.18

असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् ।
देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc