ऋग्वेद · अध्याय 8.027
अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे ।
ऋचा यामि मरुतो ब्रह्मणस् पतिं देवाँ अवो वरेण्यम् ॥
आ पशुं गासि पृथिवीं वनस्पतीन् उषासा नक्तम् ओषधीः ।
विश्वे च नो वसवो विश्ववेदसो धीनाम् भूत प्रावितारः ॥
प्र सू न एत्व् अध्वरो3 ऽग्ना देवेषु पूर्व्यः ।
आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥
विश्वे हि ष्मा मनवे विश्ववेदसो भुवन् वृधे रिशादसः ।
अरिष्टेभिः पायुभिर् विश्ववेदसो यन्ता नो ऽवृकं छर्दिः ॥
आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।
ऋचा गिरा मरुतो देव्य् अदिते सदने पस्त्ये महि ॥
अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।
आ बर्हिर् इन्द्रो वरुणस् तुरा नर आदित्यासः सदन्तु नः ॥
वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।
सुतसोमासो वरुण हवामहे मनुष्वद् इद्धाग्नयः ॥
आ प्र यात मरुतो विष्णो अश्विना पूषन् माकीनया धिया ।
इन्द्र आ यातु प्रथमः सनिष्युभिर् वृषा यो वृत्रहा गृणे ॥
वि नो देवासो अद्रुहो ऽच्छिद्रं शर्म यच्छत ।
न यद् दूराद् वसवो नू चिद् अन्तितो वरूथम् आदधर्षति ॥
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्य् आप्यम् ।
प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥
इदा हि व उपस्तुतिम् इदा वामस्य भक्तये ।
उप वो विश्ववेदसो नमस्युर् आँ असृक्ष्य् अन्याम् इव ॥
उद् उ ष्य वः सविता सुप्रणीतयो ऽस्थाद् ऊर्ध्वो वरेण्यः ।
नि द्विपादश् चतुष्पादो अर्थिनो ऽविश्रन् पतयिष्णवः ॥
देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये ।
देवं-देवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥
देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।
ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
प्र वः शंसाम्य् अद्रुहः संस्थ उपस्तुतीनाम् ।
न तं धूर्तिर् वरुण मित्र मर्त्यं यो वो धामभ्यो ऽविधत् ॥
प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति ।
प्र प्रजाभिर् जायते धर्मणस् पर्य् अरिष्टः सर्व एधते ॥
ऋते स विन्दते युधः सुगेभिर् यात्य् अध्वनः ।
अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥
अज्रे चिद् अस्मै कृणुथा न्यञ्चनं दुर्गे चिद् आ सुसरणम् ।
एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु ॥
यद् अद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।
यन् निम्रुचि प्रबुधि विश्ववेदसो यद् वा मध्यंदिने दिवः ॥
यद् वाभिपित्वे असुरा ऋतं यते छर्दिर् येम वि दाशुषे ।
वयं तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥
यद् अद्य सूर उदिते यन् मध्यंदिन आतुचि ।
वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥
वयं तद् वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।
अश्याम तद् आदित्या जुह्वतो हविर् येन वस्यो ऽनशामहै ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0