ऋग्वेद · अध्याय 8.026
युवोर् उ षू रथं हुवे सधस्तुत्याय सूरिषु ।
अतूर्तदक्षा वृषणा वृषण्वसू ॥
युवं वरो सुषाम्णे महे तने नासत्या ।
अवोभिर् याथो वृषणा वृषण्वसू ॥
ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू ।
पूर्वीर् इष इषयन्ताव् अति क्षपः ॥
आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।
उप स्तोमान् तुरस्य दर्शथः श्रिये ॥
जुहुराणा चिद् अश्विना मन्येथां वृषण्वसू ।
युवं हि रुद्रा पर्षथो अति द्विषः ॥
दस्रा हि विश्वम् आनुषङ् मक्षूभिः परिदीयथः ।
धियंजिन्वा मधुवर्णा शुभस् पती ॥
उप नो यातम् अश्विना राया विश्वपुषा सह ।
मघवाना सुवीराव् अनपच्युता ॥
आ मे अस्य प्रतीव्य1म् इन्द्रनासत्या गतम् ।
देवा देवेभिर् अद्य सचनस्तमा ॥
वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् ।
सुमतिभिर् उप विप्राव् इहा गतम् ॥
अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् ।
नेदीयसः कूळयातः पणीँर् उत ॥
वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।
सजोषसा वरुणो मित्रो अर्यमा ॥
युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।
अहर्-अहर् वृषण मह्यं शिक्षतम् ॥
यो वां यज्ञेभिर् आवृतो ऽधिवस्त्रा वधूर् इव ।
सपर्यन्ता शुभे चक्राते अश्विना ॥
यो वाम् उरुव्यचस्तमं चिकेतति नृपाय्यम् ।
वर्तिर् अश्विना परि यातम् अस्मयू ॥
अस्मभ्यं सु वृषण्वसू यातं वर्तिर् नृपाय्यम् ।
विषुद्रुहेव यज्ञम् ऊहथुर् गिरा ॥
वाहिष्ठो वां हवानां स्तोमो दूतो हुवन् नरा ।
युवाभ्याम् भूत्व् अश्विना ॥
यद् अदो दिवो अर्णव इषो वा मदथो गृहे ।
श्रुतम् इन् मे अमर्त्या ॥
उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् ।
सिन्धुर् हिरण्यवर्तनिः ॥
स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया ।
वहेथे शुभ्रयावाना ॥
युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
आन् नो वायो मधु पिबास्माकं सवना गहि ॥
तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत ।
अवांस्य् आ वृणीमहे ॥
त्वष्टुर् जामातरं वयम् ईशानं राय ईमहे ।
सुतावन्तो वायुं द्युम्ना जनासः ॥
वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् ।
वहस्व महः पृथुपक्षसा रथे ॥
त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।
ग्रावाणं नाश्वपृष्ठम् मंहना ॥
स त्वं नो देव मनसा वायो मन्दानो अग्रियः ।
कृधि वाजाँ अपो धियः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0