ग्रंथ पाठ
ऋग्वेद · अध्याय 8.028
8.028.01
ये त्रिंशति त्रयस् परो देवासो बर्हिर् आसदन् ।
विदन्न् अह द्वितासनन् ॥
8.028.02
वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
पत्नीवन्तो वषट्कृताः ॥
8.028.03
ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् ।
पुरस्तात् सर्वया विशा ॥
8.028.04
यथा वशन्ति देवास् तथेद् असत् तद् एषां नकिर् आ मिनत् ।
अरावा चन मर्त्यः ॥
8.028.05
सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् ।
सप्तो अधि श्रियो धिरे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0