ऋग्वेद · अध्याय 8.025
ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया ।
ऋतावाना यजसे पूतदक्षसा ॥
मित्रा तना न रथ्या3 वरुणो यश् च सुक्रतुः ।
सनात् सुजाता तनया धृतव्रता ॥
ता माता विश्ववेदसासुर्याय प्रमहसा ।
मही जजानादितिर् ऋतावरी ॥
महान्ता मित्रावरुणा सम्राजा देवाव् असुरा ।
ऋतावानाव् ऋतम् आ घोषतो बृहत् ॥
नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।
सृप्रदानू इषो वास्त्व् अधि क्षितः ॥
सं या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः ।
नभस्वतीर् आ वां चरन्तु वृष्टयः ॥
अधि या बृहतो दिवो3 ऽभि यूथेव पश्यतः ।
ऋतावाना सम्राजा नमसे हिता ॥
ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
धृतव्रता क्षत्रिया क्षत्रम् आशतुः ॥
अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा ।
नि चिन् मिषन्ता निचिरा नि चिक्यतुः ॥
उत नो देव्य् अदितिर् उरुष्यतां नासत्या ।
उरुष्यन्तु मरुतो वृद्धशवसः ॥
ते नो नावम् उरुष्यत दिवा नक्तं सुदानवः ।
अरिष्यन्तो नि पायुभिः सचेमहि ॥
अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे ।
श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ॥
तद् वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
मित्रो यत् पान्ति वरुणो यद् अर्यमा ॥
उत नः सिन्धुर् अपां तन् मरुतस् तद् अश्विना ।
इन्द्रो विष्णुर् मीढ्वांसः सजोषसः ॥
ते हि ष्मा वनुषो नरो ऽभिमातिं कयस्य चित् ।
तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥
अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः ।
तस्य व्रतान्य् अनु वश् चरामसि ॥
अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम ।
मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥
परि यो रश्मिना दिवो ऽन्तान् ममे पृथिव्याः ।
उभे आ पप्रौ रोदसी महित्वा ॥
उद् उ ष्य शरणे दिवो ज्योतिर् अयंस्त सूर्यः ।
अग्निर् न शुक्रः समिधान आहुतः ॥
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
ईशे हि पित्वो ऽविषस्य दावने ॥
तत् सूर्यं रोदसी उभे दोषा वस्तोर् उप ब्रुवे ।
भोजेष्व् अस्माँ अभ्य् उच् चरा सदा ॥
ऋज्रम् उक्षण्यायने रजतं हरयाणे ।
रथं युक्तम् असनाम सुषामणि ॥
ता मे अश्व्यानां हरीणां नितोशना ।
उतो नु कृत्व्यानां नृवाहसा ॥
स्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
महो वाजिनाव् अर्वन्ता सचासनम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0