ऋग्वेद · अध्याय 8.024
सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु वो नृतमाय धृष्णवे ॥
शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा ।
मघैर् मघोनो अति शूर दाशसि ॥
स नः स्तवान आ भर रयिं चित्रश्रवस्तमम् ।
निरेके चिद् यो हरिवो वसुर् ददिः ॥
आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् ।
धृषता धृष्णो स्तवमान आ भर ॥
न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः ।
न परिबाधो हरिवो गविष्टिषु ॥
आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः ।
आ स्मा कामं जरितुर् आ मनः पृण ॥
विश्वानि विश्वमनसो धिया नो वृत्रहन्तम ।
उग्र प्रणेतर् अधि षू वसो गहि ॥
वयं ते अस्य वृत्रहन् विद्याम शूर नव्यसः ।
वसोः स्पार्हस्य पुरुहूत राधसः ॥
इन्द्र यथा ह्य् अस्ति ते ऽपरीतं नृतो शवः ।
अमृक्ता रातिः पुरुहूत दाशुषे ॥
आ वृषस्व महामह महे नृतम राधसे ।
दृळ्हश् चिद् दृह्य मघवन् मघत्तये ॥
नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः ।
मघवञ् छग्धि तव तन् न ऊतिभिः ॥
नह्य् अ1ङ्ग नृतो त्वद् अन्यं विन्दामि राधसे ।
राये द्युम्नाय शवसे च गिर्वणः ॥
एन्दुम् इन्द्राय सिञ्चत पिबाति सोम्यम् मधु ।
प्र राधसा चोदयाते महित्वना ॥
उपो हरीणाम् पतिं दक्षम् पृञ्चन्तम् अब्रवम् ।
नूनं श्रुधि स्तुवतो अश्व्यस्य ॥
नह्य् अ1ङ्ग पुरा चन जज्ञे वीरतरस् त्वत् ।
नकी राया नैवथा न भन्दना ॥
एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
एवा हि वीरः स्तवते सदावृधः ॥
इन्द्र स्थातर् हरीणां नकिष् टे पूर्व्यस्तुतिम् ।
उद् आनंश शवसा न भन्दना ॥
तं वो वाजानाम् पतिम् अहूमहि श्रवस्यवः ।
अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ॥
एतो न्व् इन्द्रं स्तवाम सखायः स्तोम्यं नरम् ।
कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
घृतात् स्वादीयो मधुनश् च वोचत ॥
यस्यामितानि वीर्या3 न राधः पर्येतवे ।
ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥
स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् ।
अर्यो गयम् मंहमानं वि दाशुषे ॥
एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् ।
सुविद्वांसं चर्कृत्यं चरणीनाम् ॥
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
अहर्-अहः शुन्ध्युः परिपदाम् इव ॥
तद् इन्द्राव आ भर येना दंसिष्ठ कृत्वने ।
द्विता कुत्साय शिश्नथो नि चोदय ॥
तम् उ त्वा नूनम् ईमहे नव्यं दंसिष्ठ सन्यसे ।
स त्वं नो विश्वा अभिमातीः सक्षणिः ॥
य ऋक्षाद् अंहसो मुचद् यो वार्यात् सप्त सिन्धुषु ।
वधर् दासस्य तुविनृम्ण नीनमः ॥
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् ।
व्यश्वेभ्यः सुभगे वाजिनीवति ॥
आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः ।
स्थूरं च राधः शतवत् सहस्रवत् ॥
यत् त्वा पृच्छाद् ईजानः कुहया कुहयाकृते ।
एषो अपश्रितो वलो गोमतीम् अव तिष्ठति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0