भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.018

8.018.01

इदं ह नूनम् एषां सुम्नम् भिक्षेत मर्त्यः ।
आदित्यानाम् अपूर्व्यं सवीमनि ॥

8.018.02

अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् ।
अदब्धाः सन्ति पायवः सुगेवृधः ॥

8.018.03

तत् सु नः सविता भगो वरुणो मित्रो अर्यमा ।
शर्म यच्छन्तु सप्रथो यद् ईमहे ॥

8.018.04

देवेभिर् देव्य् अदिते ऽरिष्टभर्मन्न् आ गहि ।
स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः ॥

8.018.05

ते हि पुत्रासो अदितेर् विदुर् द्वेषांसि योतवे ।
अंहोश् चिद् उरुचक्रयो ऽनेहसः ॥

8.018.06

अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः ।
अदितिः पात्व् अंहसः सदावृधा ॥

8.018.07

उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् ।
सा शंताति मयस् करद् अप स्रिधः ॥

8.018.08

उत त्या दैव्या भिषजा शं नः करतो अश्विना ।
युयुयाताम् इतो रपो अप स्रिधः ॥

8.018.09

शम् अग्निर् अग्निभिः करच् छं नस् तपतु सूर्यः ।
शं वातो वात्व् अरपा अप स्रिधः ॥

8.018.10

अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् ।
आदित्यासो युयोतना नो अंहसः ॥

8.018.11

युयोता शरुम् अस्मद् आँ आदित्यास उतामतिम् ।
ऋधग् द्वेषः कृणुत विश्ववेदसः ॥

8.018.12

तत् सु नः शर्म यच्छतादित्या यन् मुमोचति ।
एनस्वन्तं चिद् एनसः सुदानवः ॥

8.018.13

यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः ।
स्वैः ष एवै रिरिषीष्ट युर् जनः ॥

8.018.14

सम् इत् तम् अघम् अश्नवद् दुःशंसम् मर्त्यं रिपुम् ।
यो अस्मत्रा दुर्हणावाँ उप द्वयुः ॥

8.018.15

पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् ।
उप द्वयुं चाद्वयुं च वसवः ॥

8.018.16

आ शर्म पर्वतानाम् ओतापां वृणीमहे ।
द्यावाक्षामारे अस्मद् रपस् कृतम् ॥

8.018.17

ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।
अति विश्वानि दुरिता पिपर्तन ॥

8.018.18

तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे ।
आदित्यासः सुमहसः कृणोतन ॥

8.018.19

यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत ।
युष्मे इद् वो अपि ष्मसि सजात्ये ॥

8.018.20

बृहद् वरूथम् मरुतां देवं त्रातारम् अश्विना ।
मित्रम् ईमहे वरुणं स्वस्तये ॥

8.018.21

अनेहो मित्रार्यमन् नृवद् वरुण शंस्यम् ।
त्रिवरूथम् मरुतो यन्त नश् छर्दिः ॥

8.018.22

ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि ।
प्र सू न आयुर् जीवसे तिरेतन ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc