ऋग्वेद · अध्याय 8.017
आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् ।
एदम् बर्हिः सदो मम ॥
आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥
ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥
आ नो याहि सुतावतो ऽस्माकं सुष्टुतीर् उप ।
पिबा सु शिप्रिन्न् अन्धसः ॥
आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु ।
गृभाय जिह्वया मधु ॥
स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे3 तव ।
सोमः शम् अस्तु ते हृदे ॥
अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः ।
प्र सोम इन्द्र सर्पतु ॥
तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे ।
इन्द्रो वृत्राणि जिघ्नते ॥
इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा ।
वृत्राणि वृत्रहञ् जहि ॥
दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयच्छसि ।
यजमानाय सुन्वते ॥
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीम् अस्य द्रवा पिब ॥
शाचिगो शाचिपूजनायं रणाय ते सुतः ।
आखण्डल प्र हूयसे ॥
यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः ।
न्य् अस्मिन् दध्र आ मनः ॥
वास्तोष् पते ध्रुवा स्थूणांसत्रं सोम्यानाम् ।
द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा ॥
पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः ।
भूर्णिम् अश्वं नयत् तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0