ऋग्वेद · अध्याय 8.002
इदं वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् ।
अनाभयिन् ररिमा ते ॥
नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः ।
अश्वो न निक्तो नदीषु ॥
तं ते यवं यथा गोभिः स्वादुम् अकर्म श्रीणन्तः ।
इन्द्र त्वास्मिन् सधमादे ॥
इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः ।
अन्तर् देवान् मर्त्याँश् च ॥
न यं शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् ।
अपस्पृण्वते सुहार्दम् ॥
गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते ।
अभित्सरन्ति धेनुभिः ॥
त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य ।
स्वे क्षये सुतपाव्नः ॥
त्रयः कोशासः श्चोतन्ति तिस्रश् चम्व1ः सुपूर्णाः ।
समाने अधि भार्मन् ॥
शुचिर् असि पुरुनिःष्ठाः क्षीरैर् मध्यत आशीर्तः ।
दध्ना मन्दिष्ठः शूरस्य ॥
इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः ।
शुक्रा आशिरं याचन्ते ॥
ताँ आशिरम् पुरोळाशम् इन्द्रेमं सोमं श्रीणीहि ।
रेवन्तं हि त्वा शृणोमि ॥
हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
ऊधर् न नग्ना जरन्ते ॥
रेवाँ इद् रेवतः स्तोता स्यात् त्वावतो मघोनः ।
प्रेद् उ हरिवः श्रुतस्य ॥
उक्थं चन शस्यमानम् अगोर् अरिर् आ चिकेत ।
न गायत्रं गीयमानम् ॥
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
शिक्षा शचीवः शचीभिः ॥
वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर् जरन्ते ॥
न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ ।
तवेद् उ स्तोमं चिकेत ॥
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादम् अतन्द्राः ॥
ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अ1स्मान् ।
महाँ इव युवजानिः ॥
मो ष्व् अ1द्य दुर्हणावान् सायं करद् आरे अस्मत् ।
अश्रीर इव जामाता ॥
विद्मा ह्य् अस्य वीरस्य भूरिदावरीं सुमतिम् ।
त्रिषु जातस्य मनांसि ॥
आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् ।
यशस्तरं शतमूतेः ॥
ज्येष्ठेन सोतर् इन्द्राय सोमं वीराय शक्राय ।
भरा पिबन् नर्याय ॥
यो वेदिष्ठो अव्यथिष्व् अश्वावन्तं जरितृभ्यः ।
वाजं स्तोतृभ्यो गोमन्तम् ॥
पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय ।
सोमं वीराय शूराय ॥
पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् ।
नि यमते शतमूतिः ॥
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
गीर्भिः श्रुतं गिर्वणसम् ॥
स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।
शिप्रिन्न् ऋषीवः शचीवो नायम् अच्छा सधमादम् ॥
स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय ।
इन्द्र कारिणं वृधन्तः ॥
गिरश् च यास् ते गिर्वाह उक्था च तुभ्यं तानि ।
सत्रा दधिरे शवांसि ॥
एवेद् एष तुविकूर्मिर् वाजाँ एको वज्रहस्तः ।
सनाद् अमृक्तो दयते ॥
हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः ।
महान् महीभिः शचीभिः ॥
यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयांसि च ।
अनु घेन् मन्दी मघोनः ॥
एष एतानि चकारेन्द्रो विश्वा यो ऽति शृण्वे ।
वाजदावा मघोनाम् ॥
प्रभर्ता रथं गव्यन्तम् अपाकाच् चिद् यम् अवति ।
इनो वसु स हि वोळ्हा ॥
सनिता विप्रो अर्वद्भिर् हन्ता वृत्रं नृभिः शूरः ।
सत्यो ऽविता विधन्तम् ॥
यजध्वैनम् प्रियमेधा इन्द्रं सत्राचा मनसा ।
यो भूत् सोमैः सत्यमद्वा ॥
गाथश्रवसं सत्पतिं श्रवस्कामम् पुरुत्मानम् ।
कण्वासो गात वाजिनम् ॥
य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् ।
ये अस्मिन् कामम् अश्रियन् ॥
इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् ।
मेषो भूतो3 ऽभि यन्न् अयः ॥
शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् ।
अष्टा परः सहस्रा ॥
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।
जनित्वनाय मामहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0