भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.001

8.001.01

मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत ।
इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ॥

8.001.02

अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
विद्वेषणं संवननोभयंकरम् मंहिष्ठम् उभयाविनम् ॥

8.001.03

यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये ।
अस्माकम् ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम् ॥

8.001.04

वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् ।
उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥

8.001.05

महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् ।
न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥

8.001.06

वस्याँ इन्द्रासि मे पितुर् उत भ्रातुर् अभुञ्जतः ।
माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥

8.001.07

क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः ।
अलर्षि युध्म खजकृत् पुरंदर प्र गायत्रा अगासिषुः ॥

8.001.08

प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरंदरः ।
याभिः काण्वस्योप बर्हिर् आसदं यासद् वज्री भिनत् पुरः ॥

8.001.09

ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि ॥

8.001.10

आ त्व् अ1द्य सबर्दुघां हुवे गायत्रवेपसम् ।
इन्द्रं धेनुं सुदुघाम् अन्याम् इषम् उरुधाराम् अरंकृतम् ॥

8.001.11

यत् तुदत् सूर एतशं वङ्कू वातस्य पर्णिना ।
वहत् कुत्सम् आर्जुनेयं शतक्रतुः त्सरद् गन्धर्वम् अस्तृतम् ॥

8.001.12

य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः ।
संधाता संधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः ॥

8.001.13

मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव ।
वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥

8.001.14

अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् ।
सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ॥

8.001.15

यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः ।
तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥

8.001.16

आ त्व् अ1द्य सधस्तुतिं वावातुः सख्युर् आ गहि ।
उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम् ॥

8.001.17

सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत ।
गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः ॥

8.001.18

अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि ।
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥

8.001.19

इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
शक्र एणम् पीपयद् विश्वया धिया हिन्वानं न वाजयुम् ॥

8.001.20

मा त्वा सोमस्य गल्दया सदा याचन्न् अहं गिरा ।
भूर्णिम् मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥

8.001.21

मदेनेषितम् मदम् उग्रम् उग्रेण शवसा ।
विश्वेषां तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः ॥

8.001.22

शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥

8.001.23

एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
सरो न प्रास्य् उदरं सपीतिभिर् आ सोमेभिर् उरु स्फिरम् ॥

8.001.24

आ त्वा सहस्रम् आ शतं युक्ता रथे हिरण्यये ।
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥

8.001.25

आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये ॥

8.001.26

पिबा त्व् अ1स्य गिर्वणः सुतस्य पूर्वपा इव ।
परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते ॥

8.001.27

य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः ।
गमत् स शिप्री न स योषद् आ गमद् धवं न परि वर्जति ॥

8.001.28

त्वम् पुरं चरिष्ण्वं वधैः शुष्णस्य सम् पिणक् ।
त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः ॥

8.001.29

मम त्वा सूर उदिते मम मध्यंदिने दिवः ।
मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत ॥

8.001.30

स्तुहि स्तुहीद् एते घा ते मंहिष्ठासो मघोनाम् ।
निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥

8.001.31

आ यद् अश्वान् वनन्वतः श्रद्धयाहं रथे रुहम् ।
उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः ॥

8.001.32

य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया ।
एष विश्वान्य् अभ्य् अस्तु सौभगासङ्गस्य स्वनद्रथः ॥

8.001.33

अध प्लायोगिर् अति दासद् अन्यान् आसङ्गो अग्ने दशभिः सहस्रैः ।
अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निर् अतिष्ठन् ॥

8.001.34

अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः ।
शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc