ऋग्वेद · अध्याय 7.104
इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः ।
परा शृणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्रिणः ॥
इन्द्रासोमा सम् अघशंसम् अभ्य् अ1घं तपुर् ययस्तु चरुर् अग्निवाँ इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ॥
इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् ।
यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ॥
इन्द्रासोमा वर्तयतं दिवो वधं सम् पृथिव्या अघशंसाय तर्हणम् ।
उत् तक्षतं स्वर्य1म् पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥
इन्द्रासोमा वर्तयतं दिवस् पर्य् अग्नितप्तेभिर् युवम् अश्महन्मभिः ।
तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥
इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥
प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः ।
इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद् अभिदासति द्रुहा ॥
यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः ।
आप इव काशिना संगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता ॥
ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः ।
अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे ॥
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस् तनूनाम् ।
रिपुः स्तेनः स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा3 तना च ॥
परः सो अस्तु तन्वा3 तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः ।
प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च नक्तम् ॥
सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते ।
तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो ऽवति हन्त्य् आसत् ॥
न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् ।
हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ॥
यदि वाहम् अनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने ।
किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ॥
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पूरुषस्य ।
अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ॥
यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह ।
इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ॥
प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्व1ं गूहमाना ।
वव्राँ अनन्ताँ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥
वि तिष्ठध्वम् मरुतो विक्ष्व् इ1च्छत गृभायत रक्षसः सम् पिनष्टन ।
वयो ये भूत्वी पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ॥
प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सं शिशाधि ।
प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः पर्वतेन ॥
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् ।
शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं यातुमद्भ्यः ॥
इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आ3विवासताम् ।
अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत एति रक्षसः ॥
उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् ।
सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥
मा नो रक्षो अभि नड् यातुमावताम् अपोच्छतु मिथुना या किमीदिना ।
पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥
इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियम् मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम् उच्चरन्तम् ॥
प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् ।
रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0