ऋग्वेद · अध्याय 7.103
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
वाचम् पर्जन्यजिन्विताम् प्र मण्डूका अवादिषुः ॥
दिव्या आपो अभि यद् एनम् आयन् दृतिं न शुष्कं सरसी शयानम् ।
गवाम् अह न मायुर् वत्सिनीनाम् मण्डूकानां वग्नुर् अत्रा सम् एति ॥
यद् ईम् एनाँ उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम् ।
अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम् एति ॥
अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद् अमन्दिषाताम् ।
मण्डूको यद् अभिवृष्टः कनिष्कन् पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥
यद् एषाम् अन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः ।
सर्वं तद् एषां समृधेव पर्व यत् सुवाचो वदथनाध्य् अप्सु ॥
गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् ।
समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर् वदन्तः ॥
ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः ।
संवत्सरस्य तद् अहः परि ष्ठ यन् मण्डूकाः प्रावृषीणम् बभूव ॥
ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् ।
अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के चित् ॥
देवहितिं जुगुपुर् द्वादशस्य ऋतुं नरो न प्र मिनन्त्य् एते ।
संवत्सरे प्रावृष्य् आगतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥
गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि ।
गवाम् मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0