ऋग्वेद · अध्याय 7.100
नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् ।
प्र यः सत्राचा मनसा यजात एतावन्तं नर्यम् आविवासात् ॥
त्वं विष्णो सुमतिं विश्वजन्याम् अप्रयुताम् एवयावो मतिं दाः ।
पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः पुरुश्चन्द्रस्य रायः ॥
त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम् महित्वा ।
प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य स्थविरस्य नाम ॥
वि चक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् ।
ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥
प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके ॥
किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥
वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0