भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.099

7.099.01

परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति ।
उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से ॥

7.099.02

न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप ।
उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः ॥

7.099.03

इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।
व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥

7.099.04

उरुं यज्ञाय चक्रथुर् उ लोकं जनयन्ता सूर्यम् उषासम् अग्निम् ।
दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु ॥

7.099.05

इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥

7.099.06

इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती ।
ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र ॥

7.099.07

वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc