ऋग्वेद · अध्याय 7.101
तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम् ऊधः ।
स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो रोरवीति ॥
यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे ।
स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः स्वभिष्ट्य् अ1स्मे ॥
स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं चक्र एषः ।
पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥
यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा सस्रुर् आपः ।
त्रयः कोशास उपसेचनासो मध्वः श्चोतन्त्य् अभितो विरप्शम् ॥
इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज् जुजोषत् ।
मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर् देवगोपाः ॥
स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस् तस्थुषश् च ।
तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0